top of page
दुर्गास्तोत्रम् ०९ (धर्मशीलकृतं भविष्यपुराणान्तर्गतम् एका तु प्रकृतिर्नित्या सर्ववर्णस्वरूपिणी) | DharmashIlakritam durga stotram 09
धर्मशीलकृतं दुर्गास्तोत्रम् ९
धर्मशील उवाच ।
एका तु प्रकृतिर्नित्या सर्ववर्णस्वरूपिणी ॥ ६॥
सा त्वं भगवती साक्षात्त्वया सर्वमिदं ततम् ।
त्वदाज्ञया सुरश्रेष्ठो रचित्वा लोकमुत्तमम् ॥ ७॥
महालक्ष्म्या त्वया सार्द्धं बुभुजे निर्मलं सुखम् ।
त्वद्भक्त्या भगवान्विष्णुस्त्रैलोक्यं ब्रह्मनिर्मितम् ॥ ८॥
पालयंश्च महालक्ष्म्या त्वया सार्द्धं सनातनि ।
त्वद्बलेन महादेवि त्रैलोक्यं विष्णुपालितम् ॥ ९॥
महाकाल्या त्वया सार्द्धं भस्म कृत्वा विराजते ।
सर्वे देवास्तथा दैत्याः…bottom of page
