top of page

दुर्गास्तोत्रम् ११ (देवैः कृतं ०२ मार्कण्डेयपुराणान्तर्गतम् देव्या यया ततमिदं जगदात्मशक्त्या) | Devaih kritam 02 Durga stotram 11

देवैः कृतं २ दुर्गास्तोत्रम् ११ 

देवा ऊचुः ।
देव्या यया ततमिदं जगदात्मशक्त्या
निःशेषदेवगणशक्तिसमूहमूर्त्या ।
तामम्बिकामखिलदेवमर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ ३॥

यस्याः प्रभावमतुलं भगवाननन्तो
ब्रह्मा हरश्च नहि वक्तुमलं बलं च ।
सा चण्डिकाखिलजगत्परिपालनाय
नाशाय चाशुभयस्य मतिं करोतु ॥ ४॥

या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धां सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि…
bottom of page