top of page
दुर्गास्तोत्रम् १३ (देवैः कृतं ०४ मार्कण्डेयपुराणान्तर्गतम् देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य) | devaih kritam 04 Durga stotram 13
देवैः कृतं ४ दुर्गास्तोत्रम् १३
देवा ऊचुः ।
देवि प्रपन्नार्तिहरे प्रसीद प्रसीद मातर्जगतोऽखिलस्य ।
प्रसीद विश्वेश्वरि पाहि विश्वं त्वमीश्वरी देवि चराचरस्य ॥ २॥
आधारभूता जगतस्त्वमेका महीस्वरूपेण यतः स्थितासि ।
अपां स्वरूपस्थितया त्वयैतदाप्यायते कृत्स्त्रमलङ्घ्यवीर्ये ॥ ३॥
त्वं वैष्णवी शक्तिरनन्तवीर्या विश्वस्य बीजं परमासि माया ।
सम्मोहितं देवि समस्तमेत्त्वं वै प्रसन्ना भुवि मुक्तिहेतुः ॥ ४॥
विद्याः समस्तास्तव देवि भेदाः स्त्रियः…