top of page

दुर्गास्तोत्रम् १६ (देवैः कृतं ०६ शिवपुराणान्तर्गतम् दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि) | Devaih kritam 06 Durga stotram 16

देवैः कृतं ६ दुर्गास्तोत्रम् १६ 

देवा ऊचुः ।
दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि ।
सत्यव्रते सत्यपरे त्रिसत्ये सत्यरूपिणी ॥ १९॥

सत्यस्थे सत्यसुप्रीते सत्ययोने च सत्यतः ।
सत्यसत्ये सत्यनेत्रे प्रपन्नाः शरणं च ते ॥ ३.६.२०॥

शिवप्रिये महेशानि देवदुःखक्षयङ्करि ।
त्रैलोक्यमाता शर्वाणी व्यापिनी भक्तवत्सला ॥ २१॥

आविर्भूय त्रिलोकेशि देवकार्यं कुरुष्व ह ।
सनाथाः कृपया ते हि वयं सर्वे महेश्वरि…
bottom of page