top of page
दुर्गास्तोत्रम् १७ (देवैः कृतं ०७ शिवपुराणान्तर्गतम् जय दुर्गे महेशानि जयात्मीयजनप्रिये) | devaih kritam 07 Durga stotram 17
देवैः कृतं ७ दुर्गास्तोत्रम् १७
देवा ऊचुः ।
जय दुर्गे महेशानि जयात्मीयजनप्रिये ।
त्रैलोक्यत्राणकारिण्यै शिवायै ते नमो नमः ॥ ३॥
नमो मुक्तिप्रदायिन्यै पराम्बायै नमो नमः ।
नमः समस्तसंसारोत्पत्तिस्थित्यन्तकारिके ॥ ४॥
कालिकारूपसम्पन्ने नमस्काराकृते नमः ।
छिन्नमस्तास्वरूपायै श्रीविद्यायै नमोऽस्तु ते ॥ ५॥
भुवनेशि नमस्तुभ्यं नमस्ते भैरवाकृते ।
नमोऽस्तु बगलामुख्यै धूमावत्यै नमो नमः ॥ ६॥
नमस्त्रिपुरसुन्दर्य्यै मातङ्ग्यै ते नमोनमः ।
अजितायै नमस्तुभ्यं विजयायै…