top of page

दुर्गास्तोत्रम् १८ (ब्रह्मणाकृतं ०२ शिवपुराणान्तर्गतम् रक्ष रक्ष महामाये शरणागतवत्सले) | brahmanakritam 02 Durga stotram 18

ब्रह्मणा कृतं २ दुर्गास्तोत्रम् १८ 

ब्रह्मोवाच ।
रक्ष रक्ष महामाये शरणागतवत्सले ।
एताभ्यां घोररूपाभ्यां दैत्याभ्यां जगदम्बिके ॥ ५७॥

प्रणमामि महामायां योगनिद्रामुमां सतीम् ।
कालरात्रिं महारात्रिं मोहरात्रिं परात्परां ५८॥

त्रिदेवजननीं नित्यां भक्ताभीष्टफलप्रदाम् ।
पालिनीं सर्वदेवानां करुणावरुणालयाम् ॥ ५९॥

त्वत्प्रभावादहं ब्रह्मा माधवो गिरिजापतिः ।
सृजत्यवति संसारं काले संहरतीति च ॥ ६०॥

त्वं स्वाहा त्वं स्वधा त्वं ह्रीस्त्वं बुद्धिर्विमला मता ।
तुष्टिः पुष्टिस्त्वमेवाम्ब…
bottom of page