top of page
दुर्गास्तोत्रम् १९ (ब्रह्मवैवर्तपुराणान्तर्गतम् ब्रह्मविष्णुशिवादीनां पूज्यां वन्द्यां सनातनीम्) | Durga stotram 19
दुर्गास्तोत्रम् १९
ब्रह्मविष्णुशिवादीनां पूज्यां वन्द्यां सनातनीम् ।
नारायणीं विष्णुमायां वैष्णवीं विष्णुभक्तिदाम् ॥ ९॥
सर्वस्वरूपां सर्वेषां सर्वाधारां परात्पराम् ।
सर्वविद्यासर्वमन्त्रसर्वशक्तिस्वरूपिणीम् ॥ १०॥
सगुणां निर्गुणां सत्त्वां वरां स्वेच्छामयीं सतीम् ।
महाविष्णोश्च जननीं कृष्णस्यार्द्धाङ्गसम्भवाम् ॥ ११॥
कृष्णप्रियां कृष्णशक्तिं कृष्णबुद्ध्यधिदेवताम् ।
कृष्णस्तुतां कृष्णपूज्यां कृष्णवन्द्यां कृपामयीम् ॥ १२॥
तप्तकाञ्चनवर्णाभां कोटिसूर्यसमप्रभाम् ।
ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकारिकाम् ॥ १३॥
दुर्गां शतभुजां देवीं महद्दुर्गतिनाशिनीम् ।
त्रिलोचनप्रियां साध्वीं त्रिगुणां च त्रिलोचनाम् ॥…