top of page
दुर्गास्तोत्रम् २० (कृष्णप्रोक्तं ब्रह्मवैवर्तपुराणान्तर्गतम् त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी) | krishna proktaM durga stotram 20
श्रीकृष्णप्रोक्तं दुर्गास्तोत्रम् २०
श्रीकृष्ण उवाच ।
त्वमेव सर्वजननी मूलप्रकृतिरीश्वरी ।
त्वमेवाद्या सृष्टिविधौ स्वेच्छया त्रिगुणात्मिका ॥ ७॥
कार्यार्थे सगुणा त्वं च वस्तुतो निर्गुणा स्वयम् ।
परब्रह्मस्वरूपा त्वं सत्या नित्या सनातनी ॥ ८॥
तेजस्स्वरूपा परमा भक्तानुग्रविग्रहा ।
सर्वस्वरूपा सर्वेशा सर्वाधारा परात्परा ॥ ९॥
सर्वबीजस्वरूपा च सर्वपूज्या निराश्रया ।
सर्वज्ञा सर्वतोभद्रा सर्वमङ्गलमङ्गला ॥ १०॥
सर्वबुद्धिस्वरूपा च सर्वशक्तिस्वरूपिणी ।
सर्वज्ञानप्रदा देवी सर्वज्ञा सर्वभाविनी ॥…bottom of page
