top of page
दुर्गा नक्षत्रमालिकास्तुतिः अथवा दुर्गास्तवं (युधिषितकृता) | Durga nakahatramalika stutih durgastavam
श्रीदुर्गा नक्षत्रमालिकास्तुतिः अथवा युधिष्ठिरकृतं दुर्गास्तवम्
॥ अथ श्रीदुर्गा नक्षत्रमालिका स्तुतिः ॥
॥ ॐ श्री गणेशाय नमः ॥
विराटनगरं रम्यं गच्छमानो युधिष्ठिरः ।
अस्तुवन् मनसा देवीं दुर्गां त्रिभुवनेश्वरीम् ॥ १॥
यशोदागर्भसम्भूतां नारायणवरप्रियाम् ।
नन्दगोपकुलेजातां मङ्गळ्यां कुलवर्धनीम् ॥ २॥
कंसविद्रावणकरीमसुराणां क्षयं करीम् ।
शिलातटविनिक्षिप्तामाकाशं प्रतिगामिनीम् ॥ ३॥
वासुदेवस्य भगिनीं दिव्यमाल्य विभूषिताम् ।
दिव्याम्बरधरां देवीं खद्गखेटकधारिणीम् ॥ ४॥
भारावतरणे …