top of page

देवकीस्तोत्रम् (देवतागणैःकृतं विष्णुपुराणान्तर्गतम्) | Devataganaih kritam Devaki stotram

देवतागणैः कृतं देवकीस्तोत्रम् 

अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः ।
विभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥ ५-२-६॥

देवतागणा ऊचुः ।
प्रकृतिस्त्वपरा सुक्ष्मा ब्रह्मगर्भाभवः पुरा ।
ततो वाणी जगद्धातुर्वेदगर्भासि शोभने ॥ ५-२-७॥

सूर्यस्वरूपगर्भासि सृष्टिभूता सनातनी ।
बीजभूता तु सर्वस्य यज्ञभूताभवस्त्रयी ॥ ५-२-८॥

फलगर्भा त्वमेवेज्या वह्निगर्भा तथारणिः ।
अदितिर्देवगर्भा त्वं दैत्यगर्भा तथा दितिः ॥ ५-२-९॥

ज्योत्स्ना वासरगर्भा त्वं ज्ञानगर्भासि सन्नतिः ।
नयगर्भा परा नीतिर्लज्जा त्वं…
bottom of page