top of page

देवि दुर्गे ! नमस्ते (हरेकृष्णमेहेरविरचितम्) | devi durge namaste

देवि दुर्गे ! नमस्ते 
माङ्गल्यानां त्वमसि जननी देवि दुर्गे ! नमस्ते
दौर्बल्यानां सबल-हरणी भक्ति-माल्यै-र्वरेण्या ।
त्वं शल्यानां समुपशमनी शैलजा शूलहस्ते !
वात्सल्यानां मधुर-झरणा देहि भद्रं शरण्या ॥ १॥

त्वं गायत्री निखिल-जगतामन्नपूर्णा प्रसन्ना
मेधा विद्या त्वमसि शुभदा शाम्भवी शक्तिराद्या ।
मर्त्त्ये लोके सकल-कलुषं नाशय स्वीय-धाम्ना
सिंहासीना कुरु सुकरुणां शङ्करी विश्ववन्द्या ॥ २॥

संसारश्री-र्जनय सुखदां भावनां सुप्रकाशां
शं शर्वाणी वितर तमसां…
bottom of page