top of page

देवीस्तुतिः अथवा महिषन्तकरीसूक्तम् जयास्तुतिः (शक्रादयकृता दुर्गासप्तशत्यान्त्र्गता) | Devi stutih (shakradayakrita)

शक्रादयकृता देवीस्तुतिः अथवा महिषन्तकरीसूक्तम् 
दुर्गा सप्तशत्यान्तर्गतम्

          ॥ अथ चतुर्थोऽध्यायः ॥

          ऋषिरुवाच ॥ १॥

     शक्रादयः सुरगणा निहतेऽतिवीर्ये
तस्मिन्दुरात्मनि सुरारिबले च देव्या ।
     तां तुष्टुवुः प्रणतिनम्रशिरोधरांसा
वाग्भिः प्रहर्षपुलकोद्गमचारुदेहाः ॥ २॥

     देव्या यया ततमिदं जगदात्मशक्त्या
निश्शेषदेवगणशक्तिसमूहमूर्त्या ।
     तामम्बिकामखिलदेवमहर्षिपूज्यां
भक्त्या नताः स्म विदधातु शुभानि सा नः ॥ ३॥

     यस्याः प्रभावमतुलं भगवाननन्त…
bottom of page