top of page
नमस्ते हे दुर्गे (हरेकृष्णमेहेरविरचितम्) | namaste he durge
नमस्ते हे दुर्गे
नमस्ते हे स्वस्तिप्रद-वरद-हस्ते ! सुहसिते !
महासिंहासीने ! दर-दुरित-संहारण-रते ! ।
सुमार्गे मां दुर्गे ! जननि ! तव भर्गान्वित-कृपा
दहन्ती दुश्चिन्तां दिशतु विलसन्ती प्रतिदिशम् ॥ १॥
अनन्या गौरी त्वं हिमगिरि-सुकन्या सुमहिता
पराम्बा हेरम्बाकलित-मुखबिम्बा मधुमती ।
स्वभावै-र्भव्या त्वं मुनि-मनुज-सेव्या जनहिता
ममान्तः-सन्तापं हृदयगत-पापं हर शिवे ! ॥ २॥
अपर्णा त्वं स्वर्णाधिक-मधु…bottom of page
