top of page

नवदुर्गास्तवः | nava durga stavah

श्रीनवदुर्गा स्तवः 
कार्येण याऽनेकविधां श्रयन्ती, निवारयन्ती स्मरतां विपत्तीः ।
अपूर्वकारुण्य रसार्द्र चित्ता, सा शैलपुत्री भवतु प्रसन्ना ॥ १॥

स्वर्गोऽपवर्गो नरकोऽपि यत्र, विभाव्यते दृक्कलया विविक्तम् ।
या चाऽद्वितीयाऽपि शिवद्वितीया, सा ब्रह्मचारिण्यवताद् भवेभ्यः ॥ २॥

पादौ धरित्री कटिरन्तरिक्षं, यस्याः शिरो द्यौरुदिताऽऽगमेषु ।
अन्यद्यथा योगमयोग दूरा, सा चन्द्रघण्टा घटयत्वभीष्टम् ॥ ३॥

स्वराड् विराड् संसृतिराड् अखण्डब्रह्माण्डभाण्डाकलनैकवीरा ।
सा पापविध्वंसनसद्म कूष्माण्डाऽव्याद् अपायादयदानशौण्डा…
bottom of page