top of page
नवदुर्गास्तुतिः २ | nava durga stutih 2
नवदुर्गास्तुतिः
शैले वसन्ती परमेश्वरस्य प्रिया शिवानी गिरिराजपुत्री ।
विद्या प्रशस्ता जगदम्बिका सा चाद्या नमस्ते खलु शैलपुत्री ॥ १॥
शङ्खेन्दुकुन्दसङ्काशां कमण्डलुधरां शिवाम् ।
चाक्षमालाधरां वन्दे ब्रह्मचारिणीमातरम् ॥ २॥
तप्तकाञ्चनवर्णाभां पूर्णचन्द्राननत्रयाम् ।
चन्द्रघण्टामहं वन्दे क्रूरदृष्टिसमन्विताम् ॥ ३॥
सुराकुम्भधरां रौद्रीमष्टबाहुसमन्विताम् ।
हरसिद्धामहं वन्दे शत्रुसंहारकारिणीम् ॥ ४॥
पद्मपुष्पधरां गौरीं महासिंहोपरिस्थिताम् ।
स्वाङ्के स्कन्दधरां वन्दे शर्वाणीं स्कन्दमातरम् ॥ ५॥
कात्यायनीमहादेवीं शार्दूलोपरिसंस्थिताम् ।
महाखड्गधरां वन्दे चारुनेत्रत्रयान्विताम् ॥…