top of page
नवदुर्गास्तुतिः (कुण्डलिनीचक्रस्थिता) | Nava durga stutih based on Kundalini chakra
नवदुर्गा स्तुतिः
१. शैलपुत्री (मूलाधारचक्र)
ध्यानं -
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥
पूर्णेन्दुनिभाङ्गौरीं मूलाधारस्थितां प्रथमदुर्गां त्रिनेत्राम् ।
पटाम्बरपरिधानां रत्नकिरीटां नानालङ्कारभूषिताम् ॥
प्रफुल्लवदनां पल्लवाधरां कान्तकपोलां तुङ्गकुचाम् ।
कमनीयां लावण्यस्नेहमुखीं क्षीणमध्यां नितम्बनीम् ॥
स्तोत्रम् -
प्रथमदुर्गा त्वं हि भवसागरतारिणी ।
धन ऐश्वर्यदायिनी शैलपुत्री प्रणमाम्यहम् ॥
त्रिलोकजननी त्वं हि परमानन्दप्रदायिनी ।
सौभाग्यारोग्यदायनी शैलपुत्री प्रणमाम्यहम् ॥
चराचरेश्वरी त्वं हि महामोहविनाशिनी ।
भुक्तिमुक्तिदायनी शैलपुत्री प्रणमाम्यहम्…