top of page
नवदुर्गास्तोत्रम् १ (वन्दे वाञ्छितलाभाय) | Nava Durgastotra 1
नवदुर्गास्तोत्रम्
देवी शैलपुत्री ।
वन्दे वाञ्छितलाभाय चन्द्रार्धकृतशेखराम् ।
वृषारूढां शूलधरां शैलपुत्रीं यशस्विनीम् ॥
देवी ब्रह्मचारिणी ।
दधाना करपद्माभ्यामक्षमालाकमण्डलू ।
देवी प्रसीदतु मयि ब्रह्मचारिण्यनुत्तमा ॥
देवी चन्द्रघण्टेति ।
पिण्डजप्रवरारूढा चण्डकोपास्त्रकैर्युता ।
प्रसादं तनुते मह्यं चन्द्रघण्टेति विश्रुता ॥
देवी कूष्मांडा ।
सुरासम्पूर्णकलशं रुधिराप्लुतमेव च ।
दधाना हस्तपद्माभ्यां कूष्माण्डा शुभदास्तु मे ॥
देवीस्कन्दमाता ।
…bottom of page
