top of page
नवदुर्गास्तोत्रम् २ (सच्चित्कला भगवती) | Nava durga stotram 2
नवदुर्गास्तोत्रम्
सच्चित्कला भगवती प्रथमं सुसूक्ष्मा
विद्योतते सुकृतिनां हृदये पराख्या ।
भर्गाख्यया सवितृमण्डलमध्यसस्था
सा बुद्धिचोदनपरा भवतु वरेण्या ॥ १॥
ध्यायन्ति यां सहृदया हृदये प्रभाते
गायन्ति यां सुकवयो ललितैर्वचोभिः ।
यां योगिनः सुहृदये परिशीलयन्ति
तां मोक्षदां भगवतीं शरणं प्रपद्ये ॥ २॥
शैलात्मजा कमलभूषितहंसयाना
दुर्गा च दुर्गतिहरा भवनौ सुतारा ।
नारायणेन सुकृतैः स्मृतनामधेया
व…bottom of page
