top of page
भगवतीपद्यपुष्पाञ्जलिस्तोत्रं वा महिषासुरमर्दिनिस्तोत्रम् | Bhagavatipadyapushpanjalistotra Mahishasuramardini Stotra
भगवतीपद्यपुष्पाञ्जलिस्तोत्रं अथवा महिषासुरमर्दिनिस्तोत्रम्
श्री भगवत्यै नमः ॥
भगवति भगवत्पदपङ्कजं भ्रमरभूतसुरासुरसेवितम् ।
सुजनमानसहंसपरिस्तुतं कमलयाऽमलया निभृतं भजे ॥ १॥
ते उभे अभिवन्देऽहं विघ्नेशकुलदैवते ।
नरनागाननस्त्वेको नरसिंह नमोऽस्तुते ॥ २॥
हरिगुरुपदपद्मं शुद्धपद्मेऽनुरागाद्-
विगतपरमभागे सन्निधायादरेण ।
तदनुचरि करोमि प्रीतये भक्तिभाजां
भगवति पदपद्मे पद्यपुष्पाञ्जलिं ते ॥ ३॥
केनैते रचिताः कुतो न निहिताः शुम्भादयो दुर्मदाः
केनैते तव पालिता इति हि तत् प्रश्ने किमाचक्ष्महे ।
ब्रह्माद्या अपि शङ्किताः…