top of page

महिषमर्दिनीगीतिः | MahishamardinIgItih

महिषमर्दिनीगीतिः 
इच्छामात्र-सुपर्व-विनिःसृत-तेजःपुञ्ज-रचित-ललिताङ्गि ! ।
निर्गुणतो गुणभावमुपेयुषि! जय जय विकसद्-दीर्घापाङ्गि!  ॥ १॥

अष्टादश-भुजवल्लि-समर्पित-शस्त्र-क्षपित-महासुरपालि! ।
महिषासुर-वध-रक्षित-लोके! जय जय जननि! जयाम्बुज-नालि! ॥ २॥

एकाप्यङ्ग-कलाभिरनेकावृति-वरिवस्या-सुषमामेषि ।
ब्रह्म-विष्णु-शिव-सृष्टि-विधायिनि! जय जय लोकालोक-महेशि! ॥ ३॥

भक्त-शोक-शङ्कूद्धृति-निपुणे! शरणागत-सौहित्य-विधात्रि! ।
नैसर्गिक-करुणारस-सूते! जय जय भूषण-भूषित-गात्रि! ॥ ४॥

सृष्ट्यादौ साचिव्यमुपेतम् , यत्तस्यापि च सारमुदेति ।
मातस्तत् तव विग्रह-घटकं जय जय दुर्मति-शातन-हेति ॥ ५॥

तत्राद्यत्रिकमैन्दवमारुणमानलमञ्चति, मञ्जुल-धाम ।
वाणी-माया-कामविकाशिनि! जय जय सिद्धि-विधान-ललाम!  ॥ ६॥

मध्…
bottom of page