top of page
मान्धातृशैलेश्वरीस्तोत्रम् | Mandhatrishaileshvari stotra
मान्धातृशैलेश्वरीस्तोत्र
श्री गणेशाय नमः ॥
वन्दे नीलकलेवरां त्रिनयनांदंष्ट्राकरालाननां,
घण्टा मर्मशरावमुण्ड भुजगैः खट्वाङ्गशूलासिभिः ।
आरूढाष्टभुजां किरीटरशनाघोषादिभिर्भूषणै -
राशीर्षाङ्घ्रिविटङ्कितां भगवतीम् मान्धातृशैलेश्वरीम् ॥ १॥
मञ्जीरैर्मुखरीकृताङ्घ्रियुगलां सन्ध्याभ्रशोणांबरां
चञ्चद्घोरकृपाणपाणिकमला मुज्जृम्भितभ्रूलतां ।
सारंभप्रसरत्स्फुलिङ्ग नयनामुच्चाट्टहासस्वनैर्
निर्धूताखिलसद्भयामनुभजे मान्धातृशैलेश्वरीम् ॥ २॥
वन्दे वक्षसिवृक्णदानवशिरो मालामयं कञ्चुकं,
कर्णे कुञ्जरकुण्डलं कटितटे भोगीन्द्रकाञ्चीगुणम् ।
हस्तेदारिकरक्तपङ्किलमुखं धृत्वा खलानां भयं,
शिष्टानामभयं च या दिशति तां मान्धातृशैलेश्वरीम् ॥ ३॥
स्मेरापाङ्गविलोकविभ्रमरसैः शूलादिभिश्चायुधैः -
साधूनां च दुरात्मनां च हृदयग्रन्थिंसकौतूहलम् ।
कृन्तन्तीम् भुवनत्रयैक…bottom of page
