top of page

वनदुर्गामन्त्रविधानम् | Vana durga mantra vidhanam

वनदुर्गामन्त्रविधानम् 
अथ सङ्कल्पः ।
मम सकुटुम्बस्य सपरिवारस्य च सकलदुरितोपशमनार्थं
समस्तक्षुद्राद्याभिचार-दोषनिरासार्थं दुष्टग्रहबाधा
निवृत्यर्थं सर्वोपद्रवशान्त्यर्थं देहरक्षार्थं स्थलरक्षार्थं
गृहरक्षार्थं विशेषेण-आत्मकलत्रपुत्रपुत्रीभ्रातॄणां
विद्या-उद्योगविवाहसन्तति-अभ्युदयप्रतिबन्धकदोषाणां निवृत्त्यर्थं
क्षेमस्थैर्यवीर्यविजयाभ्युदयायुरारोग्यानन्द-ऐश्वर्याभिवृद्‍ध्यर्थं
धर्मार्थकाममोक्षचतुर्विधपुरुषार्थसिद्ध्यर्थं
सर्वदेवतात्मिका भगवती श्रीवनदुर्गा प्रीतिद्वारा
सर्वापच्छान्ति-पूर्वकदीर्घायुर्विपुलधनधान्यपुत्र-
पौत्राद्यविच्छिन्नसन्ततिवृद्धिस्थिरलक्ष्मीकीर्तिलाभशत्रुपराजया-
द्यभीष्टफलसिद्ध्यर्थं
राजामात्यादिसर्वजनवशीकरणार्थं गोभूगृहधनधान्यकनकवस्तु
वाहनादिसकल-सम्पदभिवृद्ध्यर्थं श्रीवनदुर्गाप्रीत्यर्थं
वनदुर्गामन्त्रहोमाख्यं कर्म करिष्ये ॥ इति ॥

अथ जपविधानम् ।
अस्य श्रीवनदुर्गामन्त्रस्य आरण्यकऋषिः ।  See End Footnote 1 
अनुष्टुप्छन्दः । श्रीवनदुर्गादेवता । दुँ बीजम् । स्वाहा शक्तिः ।
श्रीवनदुर्गाप्रीत्यर्थे जपे विनियोगः ॥

उत्तिष्ठ पुरुषि हृदयाय नमः ।
कि…
bottom of page