top of page

शैलपुत्रीस्तुतिः हिमालयकृता | Shaila putri stutih himalayakrita

हिमालयराजकृत शैलपुत्रीस्तुतिः 
हिमालय उवाच ।
मातस्त्वं कृपयागृहे मम सुता जातासि नित्यापि
      यद्भाग्यं मे बहुजन्मजन्मजनितं मन्ये महत्पुण्यदम् ।
दृष्टं रूपमिदं परात्परतरां मूर्तिं भवान्या अपि
      माहेशीं प्रति दर्शयाशु कृपया विश्वेशि तुभ्यं नमः ॥ १॥

श्रीदेव्युवाच ।
ददामि चक्षुस्ते दिव्यं पश्य मे रूपमैश्वरम् ।
छिन्धि हृत्संशयं विद्धि सर्वदेवमयीं पितः ॥ २॥

श्रीमहादेव उवाच ।
इत्युक्त्वा तं गिरिश्रेष्ठं दत्त्वा विज्ञानमुत्तमम्…
bottom of page