top of page

श्री किङ्किणी स्तोत्रम् | Shri Kinkini Stotram

श्रीकिङ्किणीस्तोत्रम् 
किं किं दुःखं सकलजननि क्षीयते न स्मृतायाम् ।
का का कीर्तिः कुलकमलिनी प्राप्यते नार्चितायाम् ॥ १॥

किं किं सौख्यं सुरवर नुते प्राप्यते न स्तुतायाम् ।
कं कं योगन्त्वयि न तनुते चित्तमालम्बितायाम् ॥ २॥

स्मृता भवभयध्वंसि पूजितासि शुभङ्करि ।
स्तुता त्वं वाञ्छितां देवि ददासि करुणाकरे ॥ ३॥

परमानन्दबोधाद्विरूपे तेजस्वरूपिणि -
देववृन्दशिरोरत्न निघृष्टचरणाम्बुजे ।
चिद्विश्रान्ति महासत्ता मात्रे मात्रे नमोऽस्तु…
bottom of page