top of page

सुवर्णमुक्तावलीस्तुतिः आदिक्षान्तवर्णावल्या दुर्गादेवीस्तुतिः | suvarna muktavali stutih

सुवर्णमुक्तावलीस्तुतिः 
अद्वैतमक्षरमनन्तमभक्तलोकै-
     रज्ञेयतत्त्वमनुमेयमतीन्द्रियज्ञैः ।
अव्यक्तमर्चयदनुग्रहणात्तरूप-
     मन्तःपुरं पुररिपोररुणं भजामः ॥ १॥

आताम्रमात्तधनुरङ्कुशपाशबाण-
     मादर्शनिर्मलकपोलकमायताक्षम् ।
आनन्दचिन्मयमहः स्तुतमागमान्तै-
     रार्याख्यमार्तिहरमाशु ममान्तरास्ताम् ॥ २॥

इन्द्रादिदिव्यपददामियतीत्यमेया-
     मिन्दीवराक्षियुगलीमितिहासवेद्याम् ।
इन्दुप्रकाशवदनामिभराजयाता-
     मिष्टार्थदां भगवतीमिह चिन्तयामि ॥ ३॥

ईशित्वमुख्यफलदां जगदीश्वरीं ता-
     मीशानवामनिलयामियतीदृशीति ।
ईक्षावतामविषयं महदीहिताङ्घ्रि-
     मीडे परां सुरगवीमहमीप्सितानाम् ॥ ४॥

उन्निद्रपङ्कजमुखीमुदितारुणाभा-
     मुद्वृत्तपीवरकुचामुपगीयमानाम् ।
उच्चैस्तरामुपनिषद्भिरूपासकाना-
     मुच्चावचेष्टफलहेतुमुमामुपासे ॥ ५॥

ऊरीकृतात्मचरणार्पितचित्तवृत्ति-
     मूर्धस्थितां निगममौलिभिरूह्यमानाम् ।
ऊनेतरार्थफलदां परमेश्वरोढा-
     मूढत्रिलोकभरणां जननीं प्रपद्ये ॥ ६॥

ऋग्भिर्यजुर्भिरपि सामभिरर्चकाना-
     मृद्धिप्रदानन…
bottom of page