top of page

अघनाशकगायत्रीस्तोत्रम् (देवीभागवतान्तर्गतम्) | AghanashakagayatrIstotra

अघनाशकगायत्रीस्तोत्रम् 

नारद उवाच -
भक्तानुकम्पिन्सर्वज्ञ हृदयं पापनाशनम् ।
गायत्र्याः कथितं तस्माद्गायत्र्याः स्तोत्रमीरय ॥ १॥

आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि ।
सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ २॥

त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती ।
ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥ ३॥

प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।
ब्रह्मा सायं भगवती चिन्त्यते मुनिभिः सदा ॥ ४॥ वृद्धा सायं

हंसस्था गरुडारूढा…
bottom of page