top of page

गायत्रीकवचम् ३ (रुद्रयामलान्तर्गतम्) | Gayatrikavacham 3

गायत्रीकवचम् ३ 
श्रीगणेशाय नमः ॥

श्रीपार्वत्युवाच ।
देवदेव महादेव संसारार्णवतारकम् ।
गायत्रीकवचं देव कृपया कथय प्रभो ॥ १॥

श्रीमहादेव उवाच ।
मूलाधारे स्थिता नित्यं कुण्डली तत्त्वरूपिणी ।
सूक्ष्मातिसूक्ष्मपरमा बिसतन्तुस्वरूपिणी ॥ २॥

विद्युत्पुञ्जप्रतीकाशा कुण्डली श्रुतिसर्पिणी ।
परस्य ब्रह्मग्रहणी पञ्चाशद्वर्णरूपिणी ॥ ३॥

शिवस्य नर्तकी नित्या परब्रह्मप्रपूजिता ।
ब्राह्मणस्यैव गायत्री चिदानन्दस्वरूपिणी ॥ ४॥

ब्रह्मण्यवर्त्मवातेयं प्राणात्मा नित्यनूतनात् ।
नित्यं तिष्ठति सानन्दा कुण्डली तव विग्रहे ॥ ५॥

अतिगोप्यं…
bottom of page