top of page
गायत्रीतत्त्वस्तोत्रम् (वेदसारे) | Gayatri tattva stotram
गायत्रीतत्त्वस्तोत्रम्
श्रीगणेशाय नमः ॥
श्रीगायत्र्यै नमः ।
श्रीगायत्रीतत्त्वमालामन्त्रस्य विश्वामित्र ऋषिः, अनुष्टुप्छदः,
परमात्मा देवता, हलो बीजानि, स्वराः शक्तयः, अव्यक्तं कीलकम्,
मम समस्तपापक्षयार्थे गायत्रीतत्त्वपाठे विनियोगः ।
चतुर्विशतितत्त्वानां यदेकं तत्त्वमुत्तमम् ।
अनुपाधि परम्ब्रह्म तत्परञ्ज्योतिरोमिति ॥ १॥
यो वेदादौ स्वरः प्रोक्तो वेदान्ते च प्रतिष्ठितः ।
तस्य प्रकृतिलीनस्य तत्परञ्ज्योतिरोमिति ॥ २॥
तत्सदादिपदैर्वाच्यं परमं पदमव्ययम् ।
अभेदत्वं पदार्थस्य तत्परञ्ज्योतिरोमिति ॥ ३॥
यस्य मायांशभागेन जगदुत्पद्यतेऽखिलम् ।
तस्य सर्वोत्तमं रूपमरूपस्याभिधीमह…bottom of page
