top of page
गायत्रीदेवीस्तोत्रम् (महेश्वरकृतं वराहपुराणान्तर्गतम्) | Maheshvara kritam Gayatri devi stotram
महेश्वरकृतं गायत्रीदेवीस्तोत्रम्
महेश्वर उवाच ।
जयस्व देवि गायत्रि महामाये महाप्रभे ।
महादेवि महाभागे महासत्त्वे महोत्सवे ॥ २७॥
दिव्यगन्धानुलिप्ताङ्गि दिव्यस्त्रग्दामभूषिते ।
वेदमातर्नमस्तुभ्यं त्र्यक्षरस्थे महेश्वरि ॥ २८॥
त्रिलोकस्थे त्रितत्त्वस्थे त्रिवह्निस्थे त्रिशूलिनि ।
त्रिनेत्रे भीमवक्त्रे च भीमनेत्रे भयानके ।
कमलासनजे देवि सरस्वति नमोऽस्तु ते ॥ २९॥
नमः पङ्कजपत्राक्षि महामायेऽमृतस्त्रवे ।
सर्वगे सर्वभूतेशि स्वाहाकारे स्वधेऽम्बिके ॥ ३०॥
सम्पूर्णे पूर्णचन्द्राभे भास्वराङ्गे भवोद्भवे ।
महाविद्ये महावेद्ये महादैत्यविनाशिनि…bottom of page
