top of page

गायत्रीनामाष्टाविंशतिस्तोत्रम् (वसिष्ठसंहितायां) | Gayatri namashtavimshati stotram

गायत्रीनामाष्टाविंशतिस्तोत्रम् 

श्रीगणेशाय नमः ॥

ब्रह्मोवाच ।
शताक्षरात्मकं देव्या नामाष्टाविंशतिः शतम् ।
श‍ृणु वक्ष्याभि तत्सर्वमतिगुह्यं सनातनम् ॥ १॥

भूतिदा भुवना वाणी वसुधा सुमना मही ।
हरिणी जननी नन्दा सविसर्गा तपस्विनी ॥ २॥

पयस्विनी सती त्यागा चैन्दवी सत्यवीरसा ।
विश्वा तुर्या परा रेच्या निर्घृणी यमिनी भवा ॥ ३॥

गोवेद्या च जरिष्ठा च स्कन्दिनी धीर्मतिर्हिमा ।
भीषणा योगिनी पक्षी नदी प्रज्ञा च…