top of page

गायत्रीनिर्वाणम् (अग्निपुराणान्तर्गतम्) | Gayatri nirvanam

गायत्रीनिर्वाणम् 

अग्निरुवाच ।
लिङ्गमूर्तिं शिवं स्तुत्वा गायत्र्या योगमाप्तवान् ।
निर्वाणं(१)परमं ब्रह्म वसिष्ठोऽन्यश्च शङ्करात्(२)॥ १॥

नमः कनकलिङ्गाय(३)वेदलिङ्गाय वै नमः ।
नमः परमलिङ्गाय(४)व्योमलिङ्गाय वै नमः ॥ २॥

नमः सहस्रलिङ्गाय वह्निलिङ्गाय वै नमः ।
नमः पुराणलिङ्गाय श्रुतिलिङ्गाय वै नमः ॥ ३॥

नमः पाताललिङ्गाय ब्रह्मलिङ्गाय वै नमः ।
नमो रहस्यलिङ्गाय सप्तद्वीपोर्ध्वलिङ्गिने ॥ ४॥

नमः सर्वात्मलिङ्गाय सर्वलोकाङ्गलिङ्गिने ।
नमस्त्वव्यक्तलिङ्गाय बुद्धिलिङ्गाय वै नमः ॥ ५॥

नमोऽहङ्कारलिङ्गाय भूतलिङ्गाय…
bottom of page