top of page

गायत्रीपञ्चाङ्गम् अथवा त्रिपदा गायत्रीस्तवराजः (रूद्रयामलतन्त्रे गायत्रीरहस्ये) | Gayatri panchangam

त्रिपदागायत्रीपञ्चाङ्गम् अथवा त्रिपदा गायत्रीस्तवराजः 
भैरव उवाच -
श‍ृणु देवि प्रवक्ष्यामि गायत्रीतत्त्वमुत्तमम् ।
स्तोमं मन्त्रमयं नाम सर्वतन्त्रेषु गोपितम् ॥ १॥

अङ्गपञ्चाङ्गमीशानि महापातकनाशनम् ।
पुण्यप्रदं वेदसारं सर्वतत्त्वोत्तमोत्तमम् ॥ २॥

परमार्थाभिख्यातस्य स्तोत्रस्यास्ति ऋषिः शिवः ।
त्रिष्टुप् छन्दो महादेवि त्रिपदी देवता स्मृता ॥ ३॥

तारं बीजं शिरः शक्तिः स्वर्गं कीलकमीश्वरि ।
धर्मार्थकाममोक्षार्थे विनियोग इति स्मृतः ॥ ४॥

विनियोगः -
अस्य श्रीत्रिपदागायत्रीस्तवराजस्य शिव ऋषिः,
त्रिष्टुप् छन्दः,…
bottom of page