top of page
गायत्रीराजोपचारमानसपूजा | Gayatri rajopachara manas Puja
गायत्रीराजोपचारमानसपूजा
१. ध्यानम् -
मुक्ताविद्रुमहेमनीलधवलच्छायैर्मुखैस्त्रीक्षणे -
र्युक्तामिन्दुकलानिद्धमुकुटां तत्त्वार्थवर्णात्मिकाम् ।
गायत्रीं वरदाऽभयाङ्कुशकशां शुभ्रं कपालं गदा
शङ्खं चक्रमथारविन्दयुगलं हस्तैर्वहन्तीं भजे ॥ १॥
२. आवाहनम् -
उषसि मागधमङ्गलगायनैर्झटिति जागृहिं जागृहि जागृहि
अतिकृपार्द्रकटाक्षनिरीक्षणैर्जगदिदं सुखिनं कुरु हेऽम्बिके ॥
ॐ ऐं ही श्रीं भगवत्यै गायत्र्यै आवाहनं समर्पयामि नमः ।
ॐ कनकमयवितर्दिशोभमानं
…