top of page

गायत्रीवन्दना अथवा प्रणयाञ्जलिः | Gayatri vandana

गायत्री वन्दना 
ॐकाररूपा त्रिपदा त्रयी च त्रिदेववन्द्या त्रिदिवाधिदेवी ।
त्रिलोककर्त्री त्रितयस्य भर्त्री त्रैकालिकी सङ्कलनाविधात्री ॥ १॥

त्रैगुण्यभेदात् त्रिविधस्वरूपा त्रैविध्ययुक्तस्य फलस्य दात्री ।
तथापवर्गस्य विधायिनी त्वं दयार्द्रदृक्कोणविलोकनेन ॥ २॥

त्वं वाङ्मयी विश्ववदान्यमूर्तिर्विश्वस्वरूपापि हि विश्वगर्भा ।
तत्त्वात्मिका तत्त्वपरात्परा च दृक्तारिका तारकशङ्करस्य ॥ ३॥ 
भूतं च भव्यं सकलं यदेतत् त्वत्तः परं कुत्र न किञ्चिदस्ति ।
आद्यामनाद्यामनवद्यवन्द्यां पध्यन्ति विज्ञाः प्रवदन्ति…
bottom of page