top of page
गायत्रीसहस्रनामस्तोत्रम् १-१ दिव्यसहस्रनामस्तोत्रं (रुद्रयामलान्तर्गतं तत्काररूपा तत्त्वज्ञा) | Gayatri sahasra nama stotram 1-1
श्रीगायत्रीसहस्रनामस्तोत्रम्
श्रीगणेशाय नमः ।
ध्यानम् -
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां
रक्तारक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
गायत्री कमलासनां करतलव्यानद्धकुण्डाम्बुजां
पद्माक्षीं च वरस्रजञ्च दधतीं हंसाधिरूढां भजे ॥
ॐ तत्काररूपा तत्त्वज्ञा तत्पदार्थस्वरूपिणि ।
तपस्स्व्याध्यायनिरता तपस्विजननन्नुता ॥ १॥
तत्कीर्तिगुणसम्पन्ना तथ्यवाक्च तपोनिधिः ।
तत्त्वोपदेशसम्बन्धा तपोलोकनिवासिनी ॥ २॥
तरुणादित्यसङ्काशा तप्तकाञ्चनभूषणा ।
तमोपहारिणि तन्त्री तारिणि ताररूपिणि ॥ ३॥
तलादिभुवनान्तस्था तर्कशास्त्रविधायिनी ।
तन्त्रसारा तन्त्रमाता तन्त्रमार्गप्रदर्शिनी ॥ ४॥
तत्त्वा तन्त्रविधानज्ञा तन्त् रस्था तन्त्रसाक्षिणि ।
तदेकध्याननिरता तत्त्वज्…bottom of page
