top of page

गायत्रीसहस्रनामस्तोत्रम् १-२ दिव्यसहस्रनामस्तोत्रं पूर्वपीठिका फलश्रुतिसहितम् सहितम् (रुद्रयामलान्तर्गतं तत्काररूपा तत्त्वज्ञा) | Gayatri Sahasra nama stotram 1-2

श्रीगायत्रीसहस्रनामस्तोत्रम् पूर्वपीठिका फलश्रुतिसहितम् 
               श्रीगणेशाय नमः ।
ध्यानम् -
रक्तश्वेतहिरण्यनीलधवलैर्युक्तां त्रिनेत्रोज्ज्वलां
रक्तारक्तनवस्रजं मणिगणैर्युक्तां कुमारीमिमाम् ।
गायत्री कमलासनां करतलव्यानद्धकुण्डाम्बुजां
पद्माक्षीं च वरस्रजं च दधतीं हंसाधिरूढां भजे ॥

 ॥ अथ सहस्रनामस्य पूर्वपीठिका ॥

ॐ कैलासे सुखमासीनं तुषारकर शेखरम् ।
बद्धाञ्जलिर्नमस्कृत्वाऽभ्यर्च्य पृच्छति पार्वती ॥ १॥

पार्वत्युवाच ।
किं विन्यस्तं त्वया देवस्वशरीरे निरन्तरम् ।
कथमेतादृशी कान्तिः कथन्तेष्टाः समृद्धयः ॥ २॥

सर्वतत्त्वप्रभुत्वं च कथङ्कार मदाश…
bottom of page