top of page
गायत्रीसहस्रनामस्तोत्रम् २ (देवीभागवतान्तर्गतम् अचिन्त्यलक्षणाव्यक्ता) | Gayatri Sahasra nama stotram 2 from Devi Bhagavatam
श्रीगायत्रीसहस्रनामस्तोत्रम् देवी भागवतांतर्गतम्
(अकारादिक्षकारान्तादिनामघटितम्)
नारद उवाच -
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।
श्रुतिस्मृतिपुराणानां रहस्यं त्वन्मुखाच्छ्रुतम् ॥ १॥
सर्वपापहरं देव येन विद्या प्रवर्तते ।
केन वा ब्रह्मविज्ञानं किं नु वा मोक्षसाधनम् ॥ २॥
ब्राह्मणानां गतिः केन केन वा मृत्यु नाशनम् ।
ऐहिकामुष्मिकफलं केन वा पद्मलोचन ॥ ३॥
वक्तुमर्हस्यशेषेण सर्वं निखिलमादितः ।
श्रीनारायण उवाच -
साधु साधु महाप्राज्ञ सम्यक् पृष्टं त्…