top of page

गायत्रीस्तवराजः (विश्वामित्रप्रणीतः) | gayatri stavarajah

गायत्रीस्तवराजः 

श्रीगणेशाय नमः ॥

अस्य श्रीगायत्रीस्तवराजस्तोत्रमन्त्रस्य विश्वामित्रः ऋषिः,
सकलजननी चतुष्पदा गायत्री,परमात्मा देवता,
सर्वोत्कृष्टपरं धाम प्रथमपादो बीजं, द्वितीयः शक्तिः, तृतीयः
कीलकं, दशप्रणवसंयुक्ता सव्याहृतिका तुर्यपादसहिता व्यापकं,
मम धर्मार्थकाममोक्षार्थे जपे विनियोगः । अथ न्यासान् कुर्यात् ।
अथ ध्यानम् ।
गायत्रीं वेदधात्रीं शतमखफलदां वेदशास्त्रैकवेद्यां
चिच्छक्तिं ब्रह्मविद्यां परमशिवपदां श्रीपदं वै करोति ।
सर्वोत्कृष्टं पदं तत्सवितुरनुपदान्ते वरेण्यं शरण्यं
भर्गो देवस्य धीमह्यभिदधति धियो यो नः प्रचोदयादित्यौर्वतेजः ॥…
bottom of page