top of page
गायत्रीस्तुतिः (वराहमहापुराणान्तर्गता महेश्वरकृता जयस्व देवि) | Gayatri stutih
गायत्रीस्तुतिः
महेश्वर उवाच -
जयस्व देवि गायत्रि महामाये महाप्रभे ।
महादेवि महाभागे महासत्त्वे महोत्सवे ॥ १॥
दिव्यगन्धानुलिप्ताङ्गि दिव्यस्रग्दामभूषिते ।
वेदमातर्नमस्तुभ्यं त्र्यक्षरस्थे महेश्वरि ॥ २॥
त्रिलोकस्थे त्रितत्त्वस्थे त्रिवह्निस्थे त्रिशूलिनि ।
त्रिनेत्रे भीमवक्त्रे च भीमनेत्रे भयानके ॥ ३॥
कमलासनजे देवि सरस्वति नमोऽस्तु ते ।
नमः पङ्कजपत्राक्षि महामायेऽमृतस्रवे ॥ ४॥
सर्वगे सर्वभूतेशि स्वाहाकारे स्वधेऽम्बिके ।
सम्पूर्णे पूर्णचन्द्राभे भास्वराङ्गे भवोद्भवे ॥ ५॥
महाविद्ये महावेद्ये महादैत्यविनाशिनि…bottom of page
