top of page
गायत्रीस्तोत्रम् १ (वसिष्ठसंहितोक्त नमस्ते देवि) | Gayatri stotram 1
श्रीगायत्रीस्तोत्रम् १
नमस्ते देवि गायत्रि सावित्रि त्रिपदेऽक्षरे ।
अजरे अमरे मातस्त्राहि मां भवसागरात् ॥ १॥
नमस्ते सूर्यसङ्काशे सूर्यसावित्रि कोमले ।
ब्रह्मविद्ये महाविद्ये वेदमातर्नमोस्तु ते ॥ २॥
अनन्तकोटिब्रह्माण्डव्यापिनि ब्रह्मचारिणि ।
नित्यानन्दे महामाये परेशानि नमोस्तु ते ॥ ३॥
त्वं ब्रह्मा त्वं हरिः साक्षाद्रुद्रस्त्वमिन्द्रदेवता ।
मित्रस्त्वं वरुणस्त्वं च त्वमग्निरश्विनौ भगः ॥ ४॥
पूषार्यमा मरुत्वांश्च ऋषयोऽपि मुनीश्वराः ।
पितरो नागयक्षाश्च गन्धर्वाप्सरसां गणाः ॥…bottom of page
