top of page
गायत्रीस्तोत्रम् २ अघनाशकगायत्री स्त्तोरम् च (देवीभागवतान्तर्गतम् भक्तानुकम्पिनम्) | gayatri stotram 2
गायत्रीस्तोत्रम् २
नारद उवाच ।
भक्तानुकम्पिन् सर्वज्ञ हृदयं पापनाशनम् ।
गायत्र्या कथितं तस्माद्गायत्र्याः स्तोत्रमीरय ॥ १॥
श्रीनारायण उवाच ।
आदिशक्ते जगन्मातर्भक्तानुग्रहकारिणि ।
सर्वत्र व्यापिकेऽनन्ते श्रीसन्ध्ये ते नमोऽस्तु ते ॥ २॥
त्वमेव सन्ध्या गायत्री सावित्री च सरस्वती ।
ब्राह्मी च वैष्णवी रौद्री रक्ता श्वेता सितेतरा ॥ ३॥
प्रातर्बाला च मध्याह्ने यौवनस्था भवेत्पुनः ।
वृद्धा सायं भगवती चिन्त्यते मुनिभिः सदा ॥…