top of page
गायत्रीस्तोत्रम् ३ (कृष्णानन्दसरस्वतीविरचितम् यस्मिन्दृष्टे) | Gayatri stotram 3
गायत्रीस्तोत्रम् ३
श्रीः ।
यस्मिन्दृष्टे नैव दृश्येत विश्वं यस्मिंलब्धे नैव लब्धव्यशेषः ।
यस्मिन् ज्ञाते नैव वेद्यान्तराशा गायत्र्यर्थं पञ्चवक्त्रं प्रपद्ये ॥ १॥
या गायत्री नामधेयं महार्थं सार्थं कर्तुं सम्प्रविष्टोपनाये ।
मार्गे मन्त्रान् सर्वतो दर्शयित्वा तारे लीना सर्ववेदार्थदीपे ॥ २॥
श्रोतव्यं मे वाक्यमेतत्समस्तैर्वर्णैर्भाव्यं स्वाश्रमप्राप्तचिह्नैः ।
तेभ्यस्तुष्येच्छङ्करः श्रीहरिर्वा प्रष्टव्यो वः श्रीगुरुः स्वैर्विनीतैः ॥ ३॥
गायत्री चेत्सम्यगाप्ता क्रमेण सा सञ्जप्ता कर्मशुद्धया…