top of page
गायत्र्यथर्वशीर्षम् | Gayatri Atharva Sheersham
गायत्र् यथर्वशीर्षम्
श्रीगणेशाय नमः ॥
नमस्कृत्य भगवान् याज्ञवल्क्यः स्वयं परिपृच्छति
त्वं ब्रूहि भगवन् गायत्र्या उत्पत्तिं श्रोतुमिच्छामि ॥ १॥
ब्रह्मोवाच ।
प्रणवेन व्याहृतयः प्रवर्तन्ते तमसस्तु परं ज्योतिष्कः पुरुषः स्वयम् ।
भूर्विष्णुरिति ह ताः साङ्गुल्या मथेत् ॥ २॥
मथ्यमानात्फेनो भवति फेनाद्बुद्बुदो भवति बुद्बुदादण्डं भवति
अण्डवानात्मा भवति आत्मन आकाशो भवति आकाशाद्वायुर्भवति
वायोरग्निर्भवति अग्नेरोङ्कारो भवति ओङ्काराद्व्याहृतिर्भवति
व्याहृत्या गायत्री भवति गायत्र्याः सावित्री भवति सावित्र्याः
सरस्वती भवति…bottom of page
