top of page
गायत्र्यष्टकम् १ (शङ्कराचार्यविरचितं विश्वामित्रपःफलां) | Gayatryashtakam 1
गायत्र्यष्टकम्
विश्वामित्रपःफलां प्रियतरां विप्रालिसंसेवितां
नित्यानित्यविवेकदां स्मितमुखीं खण्डेन्दुभूषोज्ज्वलाम् ।
ताम्बूलारुणभासमानवदनां मार्ताण्डमध्यस्थितां
गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ १ ॥
जातीपङ्कजकेतकीकुवलयैः संपूजिताङ्घ्रिद्वयां
तत्त्वार्थात्मिकवर्णपङ्क्तिसहितां तत्त्वार्थबुद्धिप्रदाम् ।
प्राणायामपरायणैर्बुधजनैः संसेव्यमानां शिवां
गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ २ ॥
मञ्जीरध्वनिभिः समस्तजगतां मञ्जुत्वसंवर्धनीं
विप्रप्रेङ्खितवारिवारितमहारक्षोगणां मृण्मयीम् ।
जप्तुः पापहरां जपासुमनिभां हंसेन संशोभितां
गायत्रीं हरिवल्लभां त्रिनयनां ध्यायामि पञ्चाननाम् ॥ ३ ॥
काञ्चीचेलविभूषितां शि…