top of page

गायत्र्यष्टकम् २ अथवा स्तोत्रम् | Gayatri Ashtakam 2

गायत्री अष्टकम् वा स्तोत्रम् 
गायत्र्यष्टकम्
सुकल्याणीं वाणीं सुरमुनिवरैः पूजितपदाम्
     शिवामाद्यां वन्द्यां त्रिभुवनमयीं वेदजननीम् ।
परं शक्तिं स्रष्टुं विविधविध रूपां गुणमयीं
     भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ १॥

विशुद्धां सत्त्वस्थामखिल दुरवस्थादिहरणीं
     निराकारां सारां सुविमल तपो मूर्तिमतुलाम् ।
जगज्ज्येष्ठां श्रेष्ठामसुरसुरपूज्यां श्रुतिनुतां
     भजेऽम्बां गायत्रीं परमसुभगानन्दजननीम् ॥ २॥

तपो निष्ठाभीष्टांस्वजनमनसन्तापशमनीं
     दयामूर्तिं स्फूर्तिं यतितति प्रसादैकसुलभाम् ।
वरेण्यां पुण्यां तां निखिल भव बन…
bottom of page