top of page
गायत्र्यष्टकम् ३ (उषःकालगम्यामुदात्त स्वरूपां) | Gayatri Ashtakam 3
श्रीगायत्र्यष्टकम् ३
उषःकालगम्यामुदात्त स्वरूपां
अकार प्रविष्टामुदाराङ्गभूषाम् ।
अजेशादिवन्द्यामजार्चाङ्गभाजा-
मनौपम्यरूपां भजाम्यादि सन्ध्याम् ॥ १॥
सदाहंसयानां स्पुरद्रत्नवस्त्रां
वराभीतिहस्तां खगाम्नायरूपाम् ।
स्फुरत्साधिकामक्षमालां च कुम्भं
दधानामहं भावये पूर्वसन्ध्याम् ॥ २॥
स्फुरचचन्द्रकान्तां शरच्चन्द्रवक्त्रां
महाचन्द्रकान्ताद्रिपीनस्तनाढ्याम् ।
त्रिशूलाक्षहस्तां त्रिनेत्रस्यपत्नीं
वृषारूढपादां भजे मध्यसन्ध्याम् ॥ ३॥
सदासामगानप्रियां श्यामलाङ्गीं
अकारान्तरस्थां करोल्लासि चक्राम् ।
गणापद्महस्तां स्वनत्पाञ्चजन्यां
खगेशोपविष्टां भजेमास्तसन्ध्याम् ॥ ४॥
प्रगल्भस्वरूपां स्फुरत्कङ्कणाढ्यां
सदालम्बमानस्तनप्रान्तहाराम् ।
महानीलरत्नप्रभाकुण्डलाढ्यां
स्फुरत्स्मेरवक्त्रा…