top of page

सावित्रीपञ्जरस्तोत्रम् १ अथवा गायत्रीपञ्जरस्तोत्रम् (वसिष्ठसंहितायाम्) | Savitri panjar Stotram Gayatri panjarastotram 01

सावित्रीपञ्जरस्तोत्रम् अथवा गायत्रीपञ्जरस्तोत्रम् १ 

श्रीगणेशाय नमः ॥

भगवन्तं देवदेवं ब्रह्माणं परमेष्ठिनम् ।
विधातारं विश्वसृजं पद्मयोनिं प्रजापतिम् ॥ १॥

शुद्धस्फटिकसङ्काशं महेन्द्रशिखरोपमम् ।
बद्धपिङ्गजटाजूटं तडित्कनककुण्डलम् ॥ २॥

शरच्चन्द्राभवदनं स्फुरदिन्दीवरेक्षणम् ।
हिरण्मयं विश्वरूपमुपवीताजिनावृतम् ॥ ३॥

मौक्तिकाभाक्षवलयस्तन्त्रीलयसमन्वितः ।
कर्पूरोद्धूलिततनुः स्रष्टुर्नयनवर्धनम् ॥ ४॥

विनयेनोपसङ्गम्य शिरसा प्रणिपत्य च ।
नारदः परिपप्रच्छ देवर्षिगणमध्यगः ॥ ५॥

नारद उवाच ।
भगवन् देवदेवेश सर्वज्ञ करुणानिधे ।
श्रोतुमिच्छामि प्रश्नेन भोगमोक्षैकसाधनम् ॥ ६॥

ऐश्वर्यस्य समग्रस्य फलदं…
bottom of page