top of page
कामाक्षीपञ्चशती (स्तोत्रम्) | Kamakshi panchashati stotram
श्रीकामाक्षीपञ्चशतीस्तोत्रम्
(नामसारस्तवः)
कदाचित्कमला नाथं कमलायतलोचनम् ।
पप्रच्छ करुणाराशिं प्रणम्य शिरसा मुहुः ॥ १॥
मन्नाथ किं त्वया नित्यं जप्यते दृढभक्तितः ।
तन्मे ब्रूहि मयि प्रीतिर्यद्यस्ति मधुसूदन ॥ २॥
इति पृष्टः श्रिया विष्णुरुवाच कमलां हसन् ।
इतः परं प्रवक्ष्यामि रहस्यमपि ते प्रिये ॥ ३॥
श्रीकामाक्ष्याः पञ्चशती नाम्नां सङ्कीर्त्यतेऽनिशम् ।
रहस्यातिरहस्यैषा गोपनीया विशेषतः ॥ ४॥
दर्शनीया न कस्मैचित् प्रदेयोपासकाय वै ।
कामाक्षीनामकोशेषु सारमादाय…