top of page

कामाक्षीस्तोत्रम् २ (काञ्चीनूपुररत्नकङ्कणलसत्) | Shri Kamakshi Stotram 2

श्रीकामाक्षीस्तोत्रम् २ 
कामारिकामां कमलासनस्थां
     काम्यप्रदां कङ्कणचूडहस्तां  ।
काञ्चीनिवासां कनकप्रभासां
     कामाक्षिदेवीं कलयामि चित्ते ॥

काञ्चीनूपुररत्नकङ्कणलसत्केयूरहारोज्ज्वलां
     काश्मीरारुणकञ्चुकाञ्चितकुचां कस्तूरिकाचर्चिताम् ।
कल्हाराञ्चितकल्पकोज्ज्वलमुखीं कारुण्यकल्लोलिनीं
     कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ १॥

कामारातिमनःप्रियां कमलभूसेव्यां रमाराधितां
     कन्दर्पाधिकदर्पदानविलसत्सौन्दर्यदीपाङ्कुराम् ।
कीरालापविनोदिनीं भगवतीं काम्यप्रदानव्रतां
     कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ २॥

कादम्बप्रमदां विलासगमनां कल्याणकाञ्चीरवां
     कल्याणाचलपादपद्मयुगलां कान्त्या स्फुरन्तीं शुभाम् ।
कल्याणाचलकार्मुकप्रियतमां कादम्बमालाश्रियं
     कामाक्षीं कलयामि कल्पलतिकां काञ्चीपुरीदेवताम् ॥ ३॥

गन्धर्वामरसिद्धच…
bottom of page