top of page

कामाक्षीस्तोत्रम् ४ (कामाक्षिमातर्नमस्ते) | Shri Kamakshi stotram 4

श्रीकामाक्षीस्तोत्रम् 
कामाक्षिमातर्नमस्ते कामदानैकदक्षे स्थिते भक्तपक्षे ॥ ध्रु॥

कामारिकान्ते कुमारि कालकालस्य भर्तुः करे दत्तहस्ते ।
कामाय कामप्रदात्रि कामकोटिस्थपूज्ये गिरं देहि मह्यम् ॥ १॥

श्रीचक्रमध्ये वसन्तीं भूतरक्षःपिशाचातिदुष्टान् हरन्तीम् ।
श्रीकामकोट्यां ज्वलन्तीं कामहीनैस्सुगम्यां भजे देहि वाचम् ॥ २॥

इन्द्रादिमान्ये सुधन्ये ब्रह्मविष्ण्वादिवन्द्ये गिरीन्द्रस्य कन्ये ।
मान्यां न मन्ये त्वदन्यं मानिताङ्घ्रिं मुनीन्द्रैर्भजे मातरं त्वाम् ॥ ३॥

सिंहाधिरूढे नमस्ते साधुहृत्पद्मगूढे हताशेषमूढे ।
रूढं हर…
bottom of page